तर्कसंग्रह: (Tarka sangraha) Short Question

तर्कसंग्रह: Short Question and answer Tarka sangraha for Sanskrit Hons (B.A.) Tarka sangraha for Sanskrit Hons book pdf

तर्कसंग्रह: Short Question and answer Tarka sangraha

1.तर्कसंग्रह:कस्य कृति अस्ति ?

तर्कसंग्रह:अन्नम्भट्टस्य कृति अस्ति।

2.उष्णस्पर्शवत् किम् ? तच्च कतिविधम् ?

उष्णस्पर्शवत् तेज:। तच्च द्विधम् -नित्यमनित्यं च इति।

1.तर्कसंग्रह:कस्य कृति अस्ति ?
उत्तरम् – तर्कसंग्रह:अन्नम्भट्टस्य कृति अस्ति।

2.उष्णस्पर्शवत् किम् ? तच्च कतिविधम् ?
उत्तरम्- उष्णस्पर्शवत् तेज:। तच्च द्विधम् -नित्यमनित्यं च इति।

3.शब्दस्य किं लक्षणम् ? स: कतिविध:?
उत्तरम् – श्रोत्रग्राह्यो गुण:शब्द:।स:द्विविध: वर्तते।ध्वन्यात्मक:वर्णात्मक:च इति ।

4.सन्निकर्षा:के भवन्ति ?तेषां नामानि लिखत ।
उत्तरम्- प्रत्यक्षज्ञानहेतुरिन्द्रियार्थ सन्निकर्ष: स: षड्विध:।संयोग:,संयुक्तसमवाय:,संयुक्तसमवेतसमवाय:,समवाय:,समवेतसमवाय:,विशेषणविशेष्यभावश्चेति।

5.कति प्रमाणानि ? कानि च तन्नामानि ?
उत्तरम्- चत्वारि प्रमाणानि- १.प्रत्यक्षम् ,२.अनुमानम्,३.उपमानम्,૪.शब्दश्चेति।

6.द्रव्यभेदानां निर्देशं कुरुत ।
उत्तरम्- नव द्रव्याणि- पृथिवी,अप,तेज,वायु,आकाश,काल,दिक् ,आत्मन्मनांसि।

7.वायोर्लक्षणं लिखत ।
उत्तरम्- रूपरहितस्पर्शवान् वायु:भवति। स:द्विविध:नित्यानित्यभेदात् ।

8.किन्नाम समवाय:?
उत्तरम् – नित्यसम्बन्धत्वं नाम समवाय:।

9.अपां किं लक्षणमस्ति ?
उत्तरम्- शीतस्पर्शवति आप:।

10.रुपरहित:स्पर्शवान् क: ? स च कतिविध:?
उत्तरम्- रूपरहितस्पर्शवान् वायु:।स: द्विविध:।

11.रूपस्य लक्षणं तस्य भेदाश्च लिखत।
उत्तरम्-चक्षुर्मात्रग्राह्यो गुणो रूपम् । तच्च सप्तविधम् -१.शुक्ल:,२.नील:,३.पीत:,૪.रक्त:,५.हरित:,६.कपिश:,७.चित्रश्चति।

12.बुद्धे:किं लक्षणम् ?तद्भेदोै च लिखत।
उत्तरम्- सर्वव्यवहारहेतुर्गुणो बुद्धि:ज्ञानम् ।

13.कर्मणो लक्षणं लिखत।
उत्तरम्- संयोगभिन्नत्वे सति संयोगासमवायिकारणत्वं कर्मत्वम् ।

14.आत्मन:किं लक्षणम् ? कतिविधश्च ?
उत्तरम्- ज्ञानाधिकरणम् आत्मा । स च द्विविध:जीवात्मा परमात्मा चेति ।

15.पृथिव्या:लक्षणं किम् ?
उत्तरम्- गन्धसमवायादिकारणत्वं पृथिवीत्वम् ।

16.आकाशस्य किं लक्षणम् ?
उत्तरम्- शब्दगुणकम् आकाशम् ।

17.सुखस्य किं लक्षणम् ?
उत्तरम्- सर्वेषाम् अनुकूलवेदनीयं सुखं भवति।

18.अभाव:कतिविधम् ? नामानि लेख्यानि ।
उत्तरम्- अभावश्चतुर्विध:भवति।१. प्रागभाव,२.प्रध्वंसाभाव:,३.अत्यन्ताभाव:,૪.अन्योन्याभावश्चेति।

19.उपमानस्य लक्षणं लिखत ।
उत्तरम्- उपमितिकरणम् उपमानम् ।

20.स्पर्शस्य किं लक्षणम् ?
उत्तरम्- त्वगिन्द्रयमात्रग्राह्यो गुण:स्पर्श:।

तर्कसंग्रह: Short Question and answer Tarka sangraha-2

21.परिमाणस्य किं लक्षणम् ?
उत्तरम्- मानव्यवहारआधारणं कारणं परिमाणम् ।

22.तर्कसंग्रह:मुख्यत:कस्य दर्शनस्य ग्रन्थ:अस्ति ?
उत्तरम्- तर्कसंग्रह:मुख्यत:वैशेषिकदर्शनस्य ग्रन्थ:अस्ति ।

23.कति पदार्था:कानि च तेषां नामानि ?
उत्तरम्- द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायाभावा:सप्तपदार्था:।

24.कियन्ति कर्माणि कानि च तानि च तेषां नामानि ?
उत्तरम्- पञ्च कर्माणि भवन्ति । तेषां नामानि सन्ति- १.उत्क्षेपण,२.आक्षेपण,३.आकुञ्चन,૪.प्रसारण,५.गमनानि च इति ।

25.गन्धस्य किं लक्षणम् ,कतिविधश्च स:?
उत्तरम्- घ्राणग्राह्यो गुणो:गन्ध:इति गन्धस्य लक्षणम् अस्ति । स:द्विविध:सुरभिरसुभिश्च ।

26.मनस:किं लक्षणम् ?
उत्तरम्- सुखाद्युपलब्धि साधनमिन्द्रयं मन:। इति मनस:लक्षणम् अस्ति ।

27.स्नेहस्य किं लक्षणम् ?
*उत्तरम्-स्नेहस्य लक्षणम् -चूर्णादिपिण्डीभाव: हेतुर्गुण:स्नेह:।

28.अनुभवस्य किं लक्षणम् ?
उत्तरम्- स्मृतिभिन्नं ज्ञानम् अनुभव:उच्चते।स:द्विविध:१.यथार्थ:,२.अयथार्थश्च।

29.स्मृते: किं लक्षणम् ?
उत्तरम्- स्मृते:लक्षणम् अस्ति- संस्कारमात्रजन्यं ज्ञानं स्मृति।

30.परामर्शस्य किं लक्षणम् ?
उत्तरम्- व्याप्तिविशिष्टपक्षधर्मता ज्ञानं परामर्श:उच्चते ।

31.वाक्यं कतिविधं नामानि अपि लिखत।
उत्तरम्- वाक्यं द्विविधम् -१.वैदिकम्, २.लौकिकञ्चेति।

32.करणस्य किं लक्षणम् ?
उत्तरम्- असाधारणं कारणं करणम् उच्यते ।

33.कार्यस्य किं लक्षणम् ?
उत्तरम्- प्रागभावप्रतियोगिकार्यम् उच्यते ।

34.संयोगस्य किं लक्षणम् ?
उत्तरम्-संयुक्तव्यवहारहेतु:संयोग:उच्यते।

Tarka sangraha for Sanskrit Hons book pdf view

Tarka Samgraha-Annambhatt Pranit (Swapogya Vyakhya Tarkadeepika Sahit)By Dayanand Bhargav · 1998

Comments